________________
२०६
शिल्परत्ने दण्डं स्वं समतीत्य भित्तिरुदिता बाह्यान्तहाराश्रिता
दण्डान्तो द्विविधस्तदुत्तरविभिन्नोऽग्रे सभाभेदतः । ज्वालासीमनि दीपधामानि तथान्तःस्थोत्तरेऽन्तर्गते
प्राकारेऽथ बहिःष्ठितोत्तरबहिःसाले महीयस्यपि ॥ २८ ॥ प्रासादचरणाद् वाथ होमाद् वा प्रथमस्य तु ॥ २९ ॥ नीप्रं द्वितीये प्रथमा द्वितीयात् तु तृतीयके। चतुर्थस्य तृतीयात् तु चतुर्थात् पश्चमस्य तु ॥ ३० ॥ कुड्याभ्यन्तरबार्बी वा कुड्यमध्येऽपि नीप्रकम् । प्रथमे प्रकृतेस्तुल्ये तलं तस्माद् गुणाङ्गुलम् ॥ ३१ ॥ नतं द्वितीयान्त्यान्तं तत्तहदेव नतं भवेत् । मूलजन्मस्थलाधस्तादुच्छ्रितं मूलसाल के ॥ ३२ ॥ ततस्ततो द्वितीयादौ षट्पडङ्गुलहीनकम । हस्तार्ध वात्र जन्मोच्चं तस्मात त्रिव्यङ्गुलक्षयात् ॥ ३३ ॥ महामर्यादाभित्त्यन्तं क्रमाहा कारयेत् स्थलम् । अष्टादशाङ्गुलं मूलसाले वाथ ततः क्रमात् ।। ३४ ।। चतुर्मात्रक्षयादेवमुत्तमाधममध्यमम् । अन्तर्मण्डलभित्तेस्तु विस्तारं सार्धहस्तकम् ॥ ३५ ॥ तस्मात् त्रिव्यङ्गुलाधिक्यात क्रमात साला भवन्ति हि । व्योमहस्तं समारभ्य त्रिव्यङ्गुलविवर्धनात् ॥ ३६ ॥ भवन्ति वा व्योमहस्तात षट्पडङ्गुलवर्धनात् । आदिसालात् कमादेवं विस्तारं त्रिविधोदितम् ॥ ३७ ॥