________________
पञ्चपाकारलक्षणम् ] चत्वारिंशोऽध्यायः ।
२०५ अथवा गृहतारार्धं गुणभागैकभागिकम् चतुर्भागकभागं वा ह्येतन्मण्डलविस्तृतम् ॥ १९ ॥ अन्तहाराविशालं तु तद्वाह्ये द्विगुणं हि तत् । मध्यहाराविशालं तु तद्बाह्ये तत्रिसंगुणम् ॥ २० ॥ मर्यादाया विशालं तु बाह्ये त्वादिचतुर्गुणम् । महामर्यादकततमादेः पञ्चगुणं भवेत् ॥ २१ ॥ अथवा हस्तमानेन वक्ष्ये प्राकारसीमकम् । त्रिपञ्चसप्तहस्तान्ते वाद्यमाभासहर्म्यके ॥ २२ ॥ नवैकादशहस्ते वा विश्वहस्ते द्वितीयकम् । तिथिसप्तदशैकोनविंशद्धस्ते तृतीयकम् ॥ २३ ॥ एकविंशत्रयोविंशत्पञ्चविंशत्करेऽन्यकम् । सप्तविंशे नवविंशेऽप्येकत्रिंशे तु पञ्चमम् ॥ २४ ॥ विकल्पे पञ्चहस्तादि त्रयस्त्रिंशान्तमादितः। त्रिविधा छन्दहर्ये तु सप्तहस्तं मुखैः क्रमात् ॥ २५ ॥ सप्तत्रिंशत्करान्तैस्तु त्रिविधा सालपञ्चके । नवहस्तं समारभ्य सप्तत्रिंशावसानकम् ॥ २६ ॥
प्राग्वबै सालसीमा स्याद्धाणां जातिसंज्ञके । भक्तायामग्रभूमाविषुभिरिह बहिर्यशकं त्र्यंशमन्तः कृत्वान्तर्मण्डले दिक्परिवृढ बलिपीठेषु तद्दण्डसीमा। प्राच्यावाच्याः स्वसूत्रेष्वितरदिगधिपाश्चालिताः किञ्चनातः प्रादक्षिण्यान्मिथस्ते द्वितय इह महादिङ्मुखाः सम्मुखाश्च ॥