________________
शिल्परत्ने
[पूर्वभागः नवहस्तसमायुक्तं तत्समं पञ्चमं भवेत् । मध्यमानां तु मूलार्धमन्तर्मण्डलकं भवेत् ॥ ९ ॥ ततः शराद्रिबृहतीरुद्रहस्तं यथाक्रमात् । वप्रान्तरालविस्तारमुक्तं प्राकारपञ्चके ॥ १० ॥ अथोत्तमानां मूलाधैं प्रथमं त्वथ यादिभिः । नन्दातिजगतीहस्तैः (अन्त) हारा भवन्ति हि ॥ ११ ॥ अथवा मूलनिलयं कृत्वा तत्र चतुष्पदम् । आद्यसालं महापीठं पदैः षोडशभिर्युतम् ॥ १२ ॥ मण्डूकाख्यं द्वितीयं स्यान्मध्यहारा महानसम् । चतुर्थ सुप्रतीकान्तं पश्चमं चेन्दुकान्तकम् ॥ १३ ॥ एवं युग्मपदैर्युक्तमयुग्मैरथ कथ्यते । एवं मध्य विमानं स्यादाद्यसालं तु पीठकम् ॥ १४ ॥ द्वितीयं स्थण्डिलं सालं मध्यं चोभयचण्डितम् । चतुर्थ संहितं सालमीशकान्तं तु पञ्चमम् ॥ १५ ॥ चतुरश्रीकृते तेन मुखायाममितोऽर्धतः।
आयामं पुरतः प्रोक्तं प्राकाराणां विशेषतः ॥ १६ ॥ पूर्वद्वारे तन्मुखं पश्चिमे वा पूर्व वा तत्पश्चिमद्वारकेऽपि । देशाभावे तत तयोर्दक्षिणे वा प्राकाराणामुत्तरे वाथ कुर्यात् ॥ पूर्वस्थानं चार्षिकं दैविकं वा नद्यास्तीरे पर्वतान्ताब्धिपार्थे । तस्मिन् प्राकाराननं मण्डपाद्यं यस्मिन् देशे लभ्यते तत्र कुर्यात्।।