________________
अथ चत्वारिंशोऽध्यायः।
__ अथ प्राकाराः । प्रासादसदनादीनां रक्षालङ्कारसिद्धये। वप्राणि क्रमतः कुर्यात् पञ्चद्वित्येकसंख्यया ॥१॥ तत्रान्तर्मण्ड(लं) त्वाद्यमन्तहारा द्वितीयकम् । तृतीयं मध्यहारा स्याद् बाह्यहारा चतुर्थकम् ॥ २ ॥
मर्यादा पञ्चमं प्रोक्तं शालानां शिल्पवित्तमैः । दण्डेऽर्धन्तर्गतं मण्डलमवनिमितेऽर्धान्विते वान्तहारा दोस्संख्ये मध्यहारा जलधिपरिमिते बाह्यहाराद्रिसंख्ये । मर्यादा मूलधाम्नः प्रथमचरमवर्ज मुखायामयुक्ताः. प्राकाराः पञ्चकार्याः स्युरिह चरमसीमैकविंशेऽपि वा स्यात् ॥ प्रासादस्योत्तरसमवधेर्जागतान्तस्य वा स्याद्
व्यासो दण्डस्त्रिविध उदितः पादुकान्तस्य वात्र। नेयश्वायं निजनिजपदादेकदण्डः सपादः सार्धः सावित्रय इति मुखायाममानं समुक्तम् ॥ ४॥ बीजात पादं तु वार्धं वा त्रिपादं तत्समं तु वा ॥ ५ ॥ द्विगुणं त्रिगुणं वाथ चतुष्पञ्चगुणं तु वा। कल्पयेत तु मुखायामं बीजाच्छेषमथापि वा ॥ ६ ॥ क्षुद्राणामल्पहाणां स्वव्यासाप्रमाणतः । अन्तर्मण्डलकं कुर्यात सत्रिहस्तं तु तत्समम् ॥ ७ ॥ द्वितीयं च तृतीयं च तस्मात् पञ्चकराधिकम् । तस्मात् ससप्तहस्तं तु तत्समं स्थाच्चतुर्थकम् ॥ ८ ॥