________________
२०२
शिल्परले पूर्वभाग मण्डपविधानम् ] एकैकाष्टसु दिक्षु पार्श्वयुगगे द्वे द्वे च भागद्वये
द्यष्टौ दीर्घलुपा विदिग्गतलुपास्वाबद्धमूलाः पुनः। कल्प्या श्छेदलुपाद्वयीषु सचलक्षास्तासु(?) कोणोन्मुखा
वेधा सर्वलुपान्तरं तु पदमात्रं चित्रपट्टयुज्ज्वलम् ।। ६२ ॥ रङ्गं स्वयोनिपरमार्ध इहार्णवाधे
वेदाघ्रिरुत्तरलुपाद्युचिताङ्गशोभि ।। पश्चान्मृदङ्गपदमस्य ततोऽपि पश्चा
नैपथ्यधाम च विभागविदा निधेयम् ॥ ६३ ॥ रङ्गस्य नीप्रविततिः समसीम्नि मध्य
स्तूप्या स्वमूलसदनस्य तु पश्चिमायाम् । स्तूपी च सङ्गमवशात् कुरलेन कल्प्या
प्रायेण हारविततिः श्रुतिहस्तदैर्ध्या ॥ १४ ॥ अथवाष्टाविंशतिभिश्चत्वारिंशतिभिः पुनः । विंशद्भिर्वाथ विभजेत् पर्यन्ताध पदाप्तये ।। ६५ ।। देवस्याग्रे दक्षिणतः रुचिरे नाट्यमण्डपे । नाहार्धे चतुर्विंशांशे विस्तारं दशभागतः ॥ ६६ ॥ षोडशांशे षडंशा वा कुर्याद्वा सुरमन्दिरे । मानुष्यराजधान्यादौ युक्त्या लक्षणसंयुतम् ॥ ६७ ॥ सर्व समाचरेन्नाट्यमण्डपेषु यथोचितम् ।। ६७६ ॥
इति शिल्परत्ने मण्डपविधानं नाम __ एकोन चत्वारिंशोऽध्यायः ।