________________
२०७
पञ्चप्राकारलक्षणम् ] चत्वारिंशोऽध्यायः ।
मूलधारमिदं तत स्यादग्रं वस्वंशहीनतः । तत्तद्विष्कम्भतुल्यं वा द्विगुणं त्रिगुणं तु वा ॥ ३८ ॥ चतुष्पञ्चगुणं वाथ सालोत्सेधं प्रकल्पयेत् । अथवा हस्तमानेन कल्पयेत् सार्धहस्ततः ॥ ३१ ॥ षट्पडङ्गुलवृद्ध्या तु षट्सप्तान्तं समुच्छ्रयम् । त्रिपञ्चसप्तहस्तादि नन्दरुद्रकरं तु वा ॥ ४० ॥ हिद्विहस्तविवृड्या तु प्रत्येकं त्रित्रिभेदकम् । अथवोत्तरसीमान्तं कुम्भान्तं फलकान्तकम् ॥ ४१ ।। नीप्रान्तं वाजनान्तं वा प्रस्तरान्तं गलान्तकम् । एवं सालोदयं तत्तदष्टांशं तच्छिरोदयम् ॥ ४२ ॥ अथाद्यं कलशान्तं तु द्वितीयं फलकान्तकम् । बोधिकान्तं तृतीयं तु चतुर्थ चोत्तरान्तकम् ॥४३॥ पञ्चमं तु कपोतान्तमेवं वोन्नतकल्पना। कोणेषु वृत्ताकारं वा सर्वसालेषु वाचरेत् ॥४४॥ भित्तिविष्कम्भकर्णस्य पञ्चांशद्वितयं बहिः। त्यक्त्वा वृत्तीकृतं कुर्यादन्तर्भागं तु तत्क्रमात् ॥ ४५ ॥ ऋजुभित्त्युत्तरोपेतं वाजनच्छत्रशीर्षकम् । कल्पयेद्वा विशेषेण सालानां बाह्यभागतः ॥ ४६॥ कूटकोष्ठादिसंयुक्तं सपादं समसूरकम् । बुहृदार्धेन्दुशीर्ष वाप्यजुशीर्षमथापि वा ॥४७॥ अपृक्तमालिकं वा स्यात् सभाकारमथापि वा। मण्डपाकृतिकं वा स्यादृजुकुड्यमथापि वा ॥१८॥