________________
एकोनचत्वारिंशोऽध्यायः ।
मण्डपलक्षणम् ] अथार्थनामण्डपः --
अन्तर्मण्डलतो व्यतीत्य करमात्रं प्रार्चनामण्डपं तुर्यश्रं समसूरकं निजमुखायामस्य वा मध्यतः । वेदस्तम्भभृतैकभारमथवा कुर्याच्चतुर्द्वादश
स्तम्भद्व्ययुत्तरसंयुतं स्वमुकुटाद्यालंक्रियालंकृतम् ॥ १३ ॥ प्रासादतारतुल्यं वा त्रिपादं वार्धमेव वा ॥ १४ ॥ मण्डपानां तु विस्तारमथवा तत्तदंशकम् । योनिः स्याद् येन तेनैव मानेन परिकल्पयेत् ॥ १५ ॥ नवसप्तदशाष्टांशेऽप्येकैकांश विहीनतः । इत्येव मूलपादेन मण्डपाङ्घ्रिसमुच्छ्रयः | १६ | अथवा करमानैर्वा तद्दलोच्चं धरातलम् | सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ॥ १७ ॥
अष्टहस्तान्तमङ्घयुचं मण्डपानां समाचरेत् । द्विद्व्यङ्गुलविवृद्धया वा स्तम्भस्योत्सेधमाचरेत् ॥ १८ ॥ अष्टाङ्गुलं समारभ्य चार्घार्धाङ्गुलवर्धनात् । नन्दपङ्कयङ्गुलं यावत् तावत् स्तम्भस्य विस्तृतिः ॥ १९ ॥ स्तम्भो शरभागे तु द्विभागं स्यान्मसूरकम् । तृतीयांशं त्रिभागे तु स्तम्भोत्सेधं मसूरकम् ॥ २० ॥ पङ्किनन्दाष्टसप्तर्तुशरांशे पादतुङ्गके ।
भागेनाद्यङ्गतुङ्गं तु मण्डपानां विशेषतः ॥ २१ ॥ न्यासात् पादाधिकं सार्धं द्विगुणं वा ततोऽधिकम् | चतुरश्रायतं कुर्यादथवा मण्डपं पुनः || २२ ||
१९७