________________
१९८ शिल्परत्ने
[पूर्वभागः नाट्यमण्डपनाहार्धे षोडशैः शिवयुग्मकैः।। भक्ते दशांशकैस्तारं दशभिर्वा यथाक्रमम् ॥ २३ ॥ चतुरश्रं चतुःस्तम्भं नन्द्यावत्तं तु मण्डपम् । अष्टाभिः स्वस्तिकाख्यं स्याद् वीरासनमिनाधिभिः ।। स्तम्भैः षोडशभिर्विद्यान्मण्डपं श्रीप्रतिष्ठितम् । जयभद्रं रथस्तम्भं षट्त्रिंशगिरथाविभिः ॥ २५ ॥ मण्डपो माणिभद्रः स्याच्छतस्तम्भैविशालकम् । अत ऊर्ध्व युताः स्तम्भर्विशाला एव मण्डपाः ॥ २६ ॥ त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् । यावदेकोनविंशं तु ततमाभासमण्डपे ।। २७ ।। एकविंशतिहस्तादि हिहिहस्तविवर्धनात् । सप्तत्रिंशतिहस्तान्तं विकल्पं नवधा स्मृतम् ॥ २८ ॥ नवत्रिंशद्धस्तमारभ्य द्विद्विहस्तविवर्धनात् । पञ्चपञ्चाशदन्तं यन्मण्डपं छन्दसंज्ञितम् ॥ २९ ॥ सप्तपञ्चाशदारभ्य द्विहिहस्तविवर्धनात् । त्रिसप्ततिकरं यावत् तावत् जात्याख्यमण्डपम् ॥ ३० ॥ तद्विस्तारसमं दीर्घ समतुर्यश्रमण्डपम् । अध्यर्धहस्तमारभ्य षडङ्गुलविवर्धनात् ॥ ३१ ॥ + + + + + + + + पादोत्सेधमुदीरितम् । गुणाङ्गुलविवृद्धया वा कुर्यात् पादसमुच्छ्रयम् ॥ ३२ ॥ वस्वङ्गुलं समारभ्य वार्धाङ्गुलविवर्धनात् । एकोनविंशन्मात्रान्तं स्तम्भविष्कम्भमानकम् ॥ ३३ ॥