________________
१९६
शिल्परले
निधिभक्ते तु तत्तारेऽप्येकद्वित्रिवियुक्तितः । अधमाधममाद्यं स्यादधमे मध्यमं परम् ॥ ३॥ अधमोत्तममन्यत स्याच्चतुर्थादित्रयं क्रमात् । हर्म्यतारार्धमानं तु कन्यसं मुखमण्डपम् ॥ ४ ॥ हर्म्यतारमुखं श्रेष्ठं तयोर्मध्येऽष्टभाजिते । एकैकांशकहीन नवधोकं तदायतम् ॥ ५॥ हस्तं सार्धं द्विहस्तं वा प्रासादस्यांशमेव वा । अन्तरालस्य दीर्घे स्याद् द्विदण्डं तस्य वेशनम् ॥ ६ ॥ सार्धं वाप्येकदण्डं वा मानसूत्रात तु निर्गमम । तारमानेन वा कुर्यात सप्तभागकभागिकम ॥ ७ ॥ अष्टभागैकभागं वा नवभागकमेव वा । दशांशादेकभागं वाप्यन्तरालविशालकम् ॥ ८ ॥
[पूर्वभाग
युग्मस्तम्भसमायुक्तं युक्त्या सर्वाङ्गसंयुतम् । सावकाशान्तरालं वा सकुड्यं वा सजालकम् ॥ ९ ॥ सावकाशान्तरालं चेद् दीर्घ हित्रिचतुष्करम् | सोपानं पार्श्वयोः कार्य गजहस्तविभूषितम् ॥ १० ॥
प्रासादभिन्तिविस्तारतुल्यं वार्धत्रिपादकम् । अन्तरालस्य भित्तेस्तु व्यासं स्यान्मण्डपे तथा ॥ ११ ॥ कूटकोष्ठादियुक्तं वा हीनं वा मुखमण्डपे । त्रिवर्गसहितं वापि तोरणाद्यैर्विचित्रितम् ॥ १२ ॥
एकानेकतलं वाथ कर्तव्यं मुखमण्डपम् |