________________
१५५
मण्डपलक्षणम् ] एकोनचत्वारिंशोऽध्यायः ।
गोत्रांशं वसुभागे वा रन्ध्रांशे वसुभागकम् । सुखमण्डपदीर्घ स्यान्नवधा परिकीर्तितम् ॥ २२ ॥ दीर्घमानेन तारं स्यात्तत्समं वार्धमेव वा। पञ्चांशे शिखिभागं वा सप्तांशे वेदभागकम् ॥ २३ ॥ ऊयेशं दशभागं वा मित्रांशे पञ्चभागकम् । इत्येवं विस्तृतं तेषामन्तरालं विधीयते ॥ २४ ॥ भिन्नसन्धावुत्तरादौ कोणेतरगते न्यसेत् । आधाराधेयभावेन मूलाग्रौ चाप्यधोत्तरम् ॥ २५ ।।
इति शिल्परत्ने वृत्तषडश्रादिप्रासादलक्षणं नाम
अष्टात्रिंशोऽध्यायः ।
अथ एकोनचत्वारिंशोऽध्यायः ।
अथ मण्डपम् ।
तत्र पूर्व मुखमण्डपं---
नेत्रेषुसप्तदशभानुभिरादिधाम्न
स्तारं विभज्य विधुलोकयुगांशभूतैः । विस्तारमत्र रचयेन्मुखमण्डपस्य
पादोनमर्धमथवा सममस्य दीर्घम् ॥ १ ॥ हर्म्यतारार्धमानं तु कन्यसं मुखमण्डपम्। . हर्म्यतारमुखं श्रेष्ठं त्रिपादं मध्यमं पुनः ।। २ ।।