________________
१८४.
शिल्परने
पूर्वमागः धरातलोच्चं रामाशं रसांशं चरणोदयम् । लोकांशं प्रस्तरोत्सेधं सार्धवेदांशमन्रिकम् ।। ६६ ।। सपादभागं मञ्चोञ्चं पादं साङ्घ्रियुगांशकम् । प्रस्तरोचं द्विभागं तु वेदांशं चरणोदयम् ॥ ७ ॥ पक्षांशं मनमानं तु पादं सार्धगुणांशकम् । अध्यर्धाशं तु मञ्चोच्चं व्योमांशं वेदिकोदयम् ॥ ६८ ॥ विभागं गलमानं तु सार्धवेदांशकं शिरः । अध्यर्धाशं शिखामानं कारयेत् पौष्टिके गृहे ॥ १९ ॥ सदनोचे तु षट्त्रिंशद्भक्ते यंशं धरातलम् ।। वेदांशं चरणोत्सेधं प्रस्तरोच्चं द्विभागिकम् ॥ ७० ॥ वेदांशं तु तथा पादं सत्यध्रयंशं तु मञ्चकम् । सार्धानलांशपादोच्चं तदर्ध प्रस्तरोदयम् ॥ ७१ ॥.. सपादानयंशकं पादं सार्धाशं प्रस्तरोन्नतम् । गुणांशं पादतुङ्गं तु मञ्चं सानिशिवांशकम् ॥ ७२ ॥ एकांशं वेदिकामानं पदोनाशकं गलम् । शिखरं सार्धलोकांशं शेषांशं स्तुपिकोन्नतम् ॥ ७३ ॥ जयदे भवने कुर्यात् पञ्चभूमौ विशेषतः । विमानोच्चे त्रयस्त्रिंशहाजिते कुट्टिमं द्वयम् ॥ ७४ ॥ वेदांशं चरणायाम द्विभागं प्रस्तरोन्नतम् । . .. सार्धाग्न्यंशं तु पादोच्चं मञ्चं पादोननेत्रकम् ॥ ७५ ॥ त्रिभागं चरणायामं तदधै मञ्चमानकम् सार्धद्विभागं पादोच्चं सपादांशं तु मञ्चकम् ॥ ७ ॥