________________
शान्तिकादिनियमः] सप्तत्रिंशोऽध्यायः । शिखामानं सपादांशं कुर्यादद्भुतहय॑के। पञ्चाशहाजिते तुङ्गे सार्धाग्न्यशं धरातलम् ॥ ५६ ॥ धात्वंशं चरणायाम मञ्चं सावधग्निभागिकम् । सार्घषट्कं तु पादोच्चं रामाशं प्रस्तरोदयम् ॥ ५७ ॥ सार्धषड्भागकं पादं ज्यशं प्रस्तरतुङ्गकम् । सार्धपञ्चांशकं पादं मञ्चं पादोनपावकम् ॥ ५८ ॥ शिवांशं वेदिकामानं द्विभागं तु गलोदयम् । पञ्चांशं शिखरं कुर्याद् व्योमांशं स्तूपिकोदयम् ॥ ५९ ॥ सर्वदेवोचिते हर्म्य सार्वकामिकसंज्ञके । सुभद्रादीनि नामानि सन्ति तेषां बहूनि च ॥ ६ ॥ अथ पञ्चतलंतुङ्गेऽष्टचत्वारिंशांशे सत्रिपादानलांशकम् । आधङ्गं तयुगं पादं सार्धांशं तु मञ्चकम् ॥ ६१ ॥ साङ्घ्रिरामांशकं पादं यंशाध प्रस्तरोन्नतम् । पञ्चांशं चरणायाम ++ साधिकरांशकम् ॥ ६२ ।। पादं पादोनपञ्चाशं द्विभागं प्रस्तरोन्नतम् । भागं सार्धाब्धिभागं तु मञ्चमझयूनलोचनम् ॥ ६३ ॥ शिवांशं वेदिकामानं गलमानं द्विभागिकम् । सार्धान्ध्यंशं शिरोमानं शेषं स्तूप्युच्चमाचरेत् ॥ ६४ ॥ शान्तिके भवने पश्चतले त्वेवं विचक्षणः । चतुश्चत्वारिंशदंशभक्ते तु सदनोदये ॥ ६५ ॥