________________
१.८६. शिल्परले
पूर्वभागः अधिष्ठानसमं मञ्चं पादं सत्र्यद्धिसागरम् । सपादयंशकं मञ्चं पादं सार्धाब्धिभागिकम् ॥ ४५ ॥ पक्षांशं प्रस्तरोत्सेधं सपादान्ध्यंशमधिकम् । पादोनाक्षांशकं मञ्चं शिखांशं वेदिकोदयम् ॥ ४६ ॥ कर्णोच्चं तु द्विभागं तत् सार्धवेदशिरोन्नतम् । स्तूपिकोत्सेधमक्ष्यंशं शान्तिके सदनोत्तमे ॥ ४७ ॥ प्रासादस्योच्छ्ये पञ्चपञ्चाशद्भागभाजिते । आद्यङ्गोत्सेधमग्न्यंशं रसाशं चरणोदयम् ॥ ४८ ॥ प्रस्तरोच्चं तु रामाशं भूतांशं तलिपोदयम् । पादोनाग्न्यंशकं मञ्चं भूतांशं चरणायतम् ॥ १९ ॥ गुणांशं मञ्चमानं तु तद्वयं चरणायतम् | त्रिभागं प्रस्तरोत्सेधं साधं बाणांशमन्रिकम् ॥ ५० ॥ प्रस्तरोत्सेधमग्न्यंशं वेदिकोच्चं शिवांशकम् । द्विभागं गलमानं तु भूतांशं शिखरोदयम् ! ५१ ॥ पादोनयंशकं स्तूपितुङ्गं तु जयदे कुरु । होमादिस्तूपिपर्यन्तं पञ्चाशद्भागभाजिते ॥ ५२ ॥ सार्धाग्न्यंशमधिष्ठानं सप्तांशं चरणोदयम् । आद्यङ्गसदृशं मञ्चं पादं वार्धषडंशकम् ॥ ५३ ॥ सपादत्र्यंशकं मञ्चं रसांशं चरणोदयम् । गुणांशं प्रस्तरोत्सेधं पादं सार्धशरांशकम् ॥ ५४॥ सार्धद्विभागं मञ्चोच्चमेकांशं वेदिकोदयम् । द्विभागं तु गलोन्मानं पञ्चांशं तु शिरोदयम् ॥ ५५ ॥