________________
शान्तिकादिनियमः] सप्तत्रिंशोऽध्यायः ।
तहच्च चरणायाम सार्धाशं प्रस्तरोदयम् । एकांशं वेदिकामानं ग्रीवामानं द्विभागिकम् ॥ ३५ ॥ वेदांशं शिखरोन्मानं सपादं स्तूपिकोदयम् । . जयदे कारयेत् सर्वदेवासुरविमानके ॥ ३६ ॥ द्विचत्वारिंशत्कृते तुङ्गे सार्धाग्न्यंशं धरातलम् । सप्तांशं चरणायाम मञ्चमाद्यङ्गतः समम् ॥ ३७ ॥ पादं सार्धषडशं तु गुणांशं प्रस्तरोदयम् । षडंशं तलिपं कुर्यात् सार्धद्वयंशं तु मञ्चकम् ॥ ३८ ॥ एकांशं वेदिकोत्से, द्विभागं तु गलोदयम् । भूतांशं शिखरं शेषं स्तूप्युत्सेधं गृहेऽहुते ॥ ३९ ॥ साष्टचत्वारिंशदिक्ते तुङ्गे गृहस्य तु । आधङ्गोन्नतमब्ध्यंशं तद्युगं चरणायतम् ॥१०॥ मञ्चमानं तु वेदांशं तलिपं सार्धसप्तकम् । सार्धत्रिभागं मञ्चोच्चं सप्तांशं चरणायतम् ॥ ४१ ॥ प्रस्तरोच्चं गुणांशं तु शिवांशं वेदिकोदयम् । विभागं गलमानं तु रसाशं शिखरोदयम् ॥ ४२ ॥ द्विभागं तु शिखामानं कारयेत् सार्वकामिके।
अत्रापि स्वस्तिकादीनि भवन्त्याख्यानि भूषणैः ॥ १३ ॥ अथ चतुस्तलम् -
एकोनचत्वारिंशांशे कारयेत् सदनोदये। सार्धपक्षांशमाद्यङ्गं भूतांशं चरणोदयम् ॥ ४४ ॥