________________
शिल्परत्ने
. [पूरमागः भागद्वयं वेदिकोछ ग्रीवोत्सेधं गुणांशकम् । सप्तांशं शिखरोत्सेधं सार्धाशं स्तूपिकोदयम् ॥ २५ ॥ इत्येवं क्रमशः कुर्यात् सदने सार्वकामिके। ... एतेषां भूषणाकारंवशान्नामानि सन्ति वै ॥ २६ ॥
बहूनि स्वस्तिकादीनि द्वितले देवमन्दिरे । अथ त्रितलं
प्रासादत्रितये भास्वविगुणांशविभाजिते ।। २७॥ यंशं धरातलोत्सधं वेदांशं चरणोदयम्। मञ्चमानं द्विभागं तु पादोनचतुरंशकम् ॥ २८ ॥ पादायामं हि सार्धाशं प्रस्तरोच्चमुदाहतम् । सार्धाग्निभागं पांदोच्चं सपादांशं तु मञ्चकम् ॥ २९ ॥ अर्धाशं वेदिकामानं गलमानं शिवांशकम् । सार्धाग्न्यंशं तु शिखरं स्तूप्युच्चं त्वेकभागिकम् ॥ ३० ॥ शान्तिके त्रितलेऽप्येवं कुर्याच्छास्त्रानुसारतः। द्वितीयतलपादान्तमेवमेव करोत्वतः ॥ ३१ ॥ अध्यर्धाशं तु मञ्चोच्चमर्धाशं वेदिकोदयम् । शिवांशं येदिमानं तु गुणांशं शिखरोदयम् ॥ ३२ ॥ सपादांशं शिखामानं पौष्टिकेऽद्विभाजिते।... सप्तविंशत्कृते तुङ्गे द्वयंशमाद्यङ्गकोन्नतम् ।। ३३ ।। चरणोच्चं तुं वेदांशं हिभागं प्रस्तरोन्नतम् !' . . वेदांशं चरणायाम मञ्चं पादोननेत्रकम् ॥ २४ ॥