________________
१८९.
शान्तिकादिनियमः] सप्तत्रिंशोऽध्यायः ।
स्तम्भं पादाधिकद्व्यंशं मञ्चं साधेिशिवांशकम् । व्योमाशं वेदिकामानमध्यध गलमानकम् ॥ ७७ ॥ सार्धत्रिभागं शिखरं द्विभागं स्तूपिकोन्नतम् । अद्भुते सदने ह्येवं सर्व कुर्यात् सुरालये ॥ ७८ ॥ चतुर्विंशद्विभागे तु तुङ्गे यधं धरातलम् । गुणांशं चरणोत्सेधं मञ्चमानं तदर्धकम् ॥ ७९ ॥ पादं पादोनलोकांशं सार्धाशं त्वथ मञ्चकम् । . धर्धाशमङ्घ्रितुङ्गं तु सपादं प्रस्तरोदयम् ॥ ८ ॥ स्तम्भं पादाधिकाशं तदर्ध मञ्चमानकम् । सार्धभागद्वयं पादमेकांशं प्रस्तरोच्छ्रयम् ॥ ८१ ॥. अर्धाशं वेदिकामानं त्रिपादं गलमानकम् । शिरः पादोननेत्रांशं शेषं तु स्तूपिकोन्नतम् ॥ ८२ ।। एवं कुर्यादिदं सर्व सदने सार्वकामिके। नामानि ब्रह्मकान्तादीन्यनेकानि भवन्स्यतः ॥ ८३ ॥
भूषणाकृतिभेदेन द्रष्टव्यान्यत्र शास्त्रतः । अथ षट्तलंसप्तपश्चाशदंशे तु सदनोदयमानके ॥ ८४ ॥ आद्यङ्गोन्नतमग्न्यंशं षडंशं चरणोदयम् । पादहीनत्रिभागं तु मञ्चं साध शरांशकम् ॥ ८५ ॥ पादं धर्ध प्रस्तरोच्चं पादं साघ्रिशरांशकम् ।। सार्धद्विभागं मञ्चोच्छ पञ्चाशं चरणोदयम् ॥ ८६ ॥