________________
शान्तिकादिनियमः सप्तत्रिंशोऽध्यायः। विस्तारेण सपादं वा साधं वा स्तूपिकोच्छ्रयम् । पङ्कजं तोरणस्रक् च क्षेपणं पत्रक्षेपणम् ॥ ४ ॥ धक् च कम्पं च पद्मं च वेत्रत्रितयकुड्मलौ । एवं तस्यैवावयवं यथाशोभं समाचरेत् ॥ ५ ॥ चतुरष्टद्विरष्टाधे सधारं वर्तुलं तु वा ।
स्यादाकृतिः सुरोर्वीशविप्राणां च विशां मतम् ॥ ६ ॥ इत्येकभूमौ चतुरश्ररूपे सुरालयेऽल्पे विधिरभ्यधायि । अथाभिधास्ये द्वितलादिजातिच्छन्दादिवृत्तादिगतं विशेषम् ॥
इति शिल्परने स्तूपिकालक्षणं नाम
षट्त्रिंशोऽध्यायः ।
।
मायः ।
अथ सप्तत्रिंशोऽध्यायः।
अथ शान्तिकादिनियमः। . शान्तिकं पौष्टिकं चैव जयदं त्वद्भुतं पुनः। सार्वकामिकमित्येवं पञ्चधा सदनं स्मृतम् ॥१॥ पूर्वोक्तं मानमुन्मानं कुर्यादत्रापि सर्वतः। अल्पे धामनि विस्तृतिद्विगुणितप्रायोच्छ्रयेऽष्टांशिते
मूलांशेन मसूरकोच्छ्यमतः स्तम्भोच्छ्रयं वंशकम् । भूयः प्रस्तरमंशतो गलमिलांशेन प्रक्लप्तोच्छ्रयं
भागाभ्यां शिखरोच्छ्रयं विरचयेदेकांशतः स्तूपिकाम् ॥२॥ एवं वा शान्तिकं सद्म प्रोक्तमंशोच्छ्रयं पुनः ॥ ३ ॥