________________
१८२
शिल्परत्ने
[पूर्वभागः
स्वसप्ताष्टदशांशैकहीनं वा कारयेद् बुधः । सदनोचे नवांशे तु शिवांशं तत्तलोदयम् ॥ ४॥ सार्धद्विभागं पादोच्चं मञ्चमेकांशमानतः । सार्धाशं गलमानं तु द्विभागं शिखरोदयम् ॥ ५ ॥ स्तृपिकामंशतः कुर्यात् पौष्टिकाख्ये सुरालये। .. सदनोच्चे दशांशे तु भागमाद्यंशकोन्नतम् ॥ ६ ॥ सार्धयंशं तु पादोच्चं प्रस्तरोच्चं शिवांशकम् ।। सार्धाशं गलमानं तु गुणांशं शिखरोदयम् ॥ ७ ॥ एकांशं स्तूपिकामानं कुर्याजयदनामकम् । रुद्रांशे हर्यतुङ्गे तु सपादांशं धरातलम् ॥ ८ ॥ सार्धयशं तु पादोच्चं प्रस्तरं तु शिवांशकम् । अध्यर्धाशं तु कर्णोच्चं सार्धन्यंशं तु शीर्षकम् ।। ९ ॥ सपादांशं स्तूपिकोच्चं कुर्यादद्भुतमन्दिरे ॥ १० ॥ उत्तुङ्गे सप्तभागे तु शिवांशं तु धरातलम् । पक्षांशं पादतुङ्गं च शिखरोच्चं गुणांशकम् ॥ ११॥ स्तूप्युत्सेधमथैकांशं कर्तव्यं सार्वकामिके । नानालङ्कारभेदेन तेषां नामानि सन्ति वै ॥ १२ ॥
श्रीभोगादीन्यनेकानि तानि ज्ञेयानि शास्त्रतः। अथ द्वितलं - प्रासादोच्चं तु विभजेदष्टाविंशद्विभागतः ॥ १३ ॥