________________
१८.
शिल्परत्ने ईशावतारक्रीडादिकथारूपाणि चैव हि । मूलभित्तौ च परितो विन्यसेदुक्तलक्षणम् ॥ ३१ ॥ अथोपरितले प्राच्यामिन्द्रं षण्मुखमेव वा । दक्षिणे दक्षिणामूर्तिं वीरभद्रमथापि वा ॥१२॥ पश्चिमे नरसिंहं वाप्युत्तरे चार्थदं विधिम् । द्वितीये तु तले चैवं तृतीये तु मरुद्गणान् ॥ ३३ ॥ तलेतलेऽमरान् सिद्धान् यक्षविद्याधरानपि । गन्धर्वाप्सरसो वाथ नागेन्द्रांस्तु मुनीश्वरान् ॥ ३४॥ प्रमथांश्चैव दैत्यादीन् षोडशप्रतिमांस्तथा । कर्णादधः प्रतेरूचं कोणे के + स्ववाहनम् ॥ ३५ ॥ कर्णादधश्चान्त्यतले प्राकारादौ च विन्यसेत् ॥ ३५३ ।।
इति शिल्परले नासिकालक्षणं नाम
पञ्चत्रिंशोऽध्यायः ।
___ अथ षदत्रिंशोऽध्यायः ।
अथ स्तूपिका भावाहस्तवंशतुलादयः(१) । स्तृपिकाश्चापि देवानामयुग्माश्चैव शोभनाः। , युग्मा एव मनुष्याणां प्रशस्ताः सर्वधामसु ॥ १॥ शिखरे स्तूपिकास्थाने कार्या मूर्नेष्टका तथा । । तत आच्छाद्य शिखरं द्रव्यैः कार्तस्वरादिभिः ॥२॥ स्तूपीदण्डं समाच्छाद्य कलशं चैव विन्यसेत् । पद्मतारात् सपादं स्यात् स्त्पीकुम्भविशालकम् ॥ ३ ॥