________________
नासिकालक्षणम् ]
पञ्चत्रिंशोऽध्यायः ।।
तत्तारत्रिचतुर्थीशहीनशेषं तदुन्नतम् । कपोतालिङ्गनात् क्षुद्रनासिकोच्चं तु कल्पयेत् ॥ २१ ॥ प्रतिवाजनसीमान्तं तस्य शक्तिध्वजोन्नतम् । तदुच्चं तु विधाभज्य कर्णमेकांशमुन्नतम् ॥ २२ ॥ एकांशं किंपिरीवकं तारं युक्तिवशान्नयेत् । शक्तिध्वजस्य विपुलं कारयेद् दण्डमानतः ॥ २३॥ तत्कर्ण तावदेवोच्चं सपादं सार्धमेव वा । नासिकार्थेन गाढं स्याद् गाढाधे मुखपट्टिकाम् ॥ २४ ॥ गर्भाधसमविस्तारा महानासी चतुर्दिशम् । तदों वा त्रिपादो वा तासां निर्गम ईरितः ॥ २५ ॥ क्षुद्रनासी तदर्धा + वारांशेन विकारयेत् । पादं प्रतिकपोतेषु कल्पयेत् स्वस्तिकाकृति ॥ २६ ॥ मध्ये च कूटशालानां पञ्जरे नाल्पनासिका। शिखरे भद्रनासा स्याल्ललाटाख्या तु नासिका ॥ २७ ॥
शालाग्रयोस्तु कर्तव्ये नासिकालक्षणं त्विदम् । अथ मूर्तिन्यासः
नन्दीश्वरमहाकालौ पूर्वद्वारोपरि न्यसेत् ॥ २८ ॥ दक्षिणे दक्षिणामूर्ति पश्चिमेलिं+सम्भवम् । विष्णुं वाप्यथ कौबेर्या दुर्गा ब्रह्माणमेव वा ॥ २९ ॥ दक्षिणे च गणेशानमुत्तरे नृत्तरूपिणम् । क्षेत्रेशं चैव चैशान्यां द्वारे तद्वारपालकान् ॥ ३० ॥