________________
मूर्धकान्यासः] चतुर्विंशोऽध्यायः ।
तद्यासार्धधनोपेतं पूर्वाग्रं चोत्तराग्रकम् । बद्ध्वा तन्मध्यगे छिद्रे दण्डलम्ब सुयोजयेत् ॥ ११ ॥ दण्डमूलत्रिभागैकं शिखान्यासमुदाहृतम् । शिखिपादं घनं तस्य दीर्घ स्याद् योजयेद् दृढम् ॥ १२ ॥ दण्डमूलाग्रयोः पढें योजयेल्लोहजं बुधः । कर्णिकायां न्यसेद् दण्डं शक्रादिषु महादिशि ॥ १३ ॥ चत्वारश्चेष्टकाः स्थाप्या शुभेऽहनि विशेषतः। आचार्यो मण्डपे सर्वमधिवास्य यथाविधि ॥ १४ ॥ रात्री जागरणं कृत्वा प्रातस्नानादिकृद् बुधः। नववस्त्राङ्गुलीयाद्यैरनुलेपैरलङ्कृतः ॥ १५ ॥ यज्ञसूत्रं विनान्यैस्तु भूषितेनाथ शिल्पिना । सह प्रासादशिखरमारुह्य च गुरुः स्वयम् ॥ १६ ॥ स्थिरराश्युदये वा स्यादुदयात्मोदयेऽपि वा। जीवशुक्रसमायुक्ते तयोर्दृष्टेऽथवा पुनः ॥ १७ ॥ कुर्यान्मूर्नेष्टकान्यासं स्थाने पूर्वमुदाहृते । पूर्वादिदिक्षु चत्वारश्चेष्टकाः प्रथमं न्यसेत् ॥ १८ ॥ क्रमेण ब्रह्मविष्ण्वीशसदाशिवकृतेश्वराः । तर्जनीवेधमात्रं तु शिखरे सुषिरं कुरु ॥ १९ ॥ नवरत्नं तु विन्यस्य स्तूपीदण्डं तदूर्ध्वतः। प्रतिष्ठाप्य यथान्यायं कलशैरभिषिञ्चयेत् ॥ २० ॥ ततः शिल्पिवरः सम्यग् बद्धोदैः सुधयापि च । गुलौदैर्वा दृढीकृत्य निभलत्वं समाचरेत् ॥ २१ ॥