________________
शिल्परने
[पूर्वभागः यजमानो हृष्टमना दक्षिणाद्यैः स्वशक्तितः।। आचार्य शिल्पिनं चान्यान् कर्मकारांश्च तोषयेत् ॥२२॥ अथ दारुमये कुर्याच्छुल्बायैश्छादनं ततः। वर्षातपादिवारण(तु?कोल्यैः शुल्बादिकल्पितैः ॥ २३ ॥ फलकैः सारेष्टकाभिर्वा विमानशिखरं ततः । (सुपिदधातु ?) मृल्लोष्टैर्वाथ शिखरं सम्यगाच्छादयेत् क्रमात् ॥
प्रथमं नीप्रलोष्टानि ज्यावृत्त्या च तदूर्ध्वतः। एकावृत्त्या पुनस्तत्र तुर्यश्राणि च विन्यसेत् ।। २५ ॥ क्रूरलोष्टानि विन्यस्य चतुरश्रं पुनः क्रमात् । यश्राणि विन्यसेत् पश्चादेवमेव पुनः पुनः ॥ २६ ॥ नीप्रपट्टया आपिधानं विन्यसेत् प्रतिपट्टिकम् ।। कोणपारावतं नीप्रकोणेष्वथ च विन्यसेत् ॥ २७ ॥ पश्चात् तदूर्ध्वतः कोणलोष्टानि च प्रविन्यसेत् । तत्पार्श्वयोः पुटाख्या+न्यूर्ध्वलोष्टानि चोर्ध्वतः ॥ २८ ॥ गर्तकोणे तदाख्यानि कीलादीनि यथोचितम् । यथाबुद्धि यथाशोभं शिखरं विदधातु च ॥ २९ ॥ अथ शौल्बे राजतैर्वा सौवर्णैर्वा सुरालये। शिखराच्छादनं कुर्यात् फलकैरर्थसौलभात् ॥ ३० ॥ यवमानं घनं तेषां तदर्ध वा समाचरेत् । अष्टाङ्गलादिविस्तारं फलकानां स्मृतं बुधैः ।। ३१॥ प्रादक्षिण्येन विन्यस्य गूढकीलै ढीकृतम् ॥ १३ ॥ इति शिल्परत्ने मूर्तेष्टकाविन्यासं नाम
चतुस्त्रिंशोऽध्यायः ।
१. 'त् । तत्पार्श्व' क. पाठः.