________________
अथ चतुस्त्रिंशोऽध्यायः।
___अथ मुर्भेष्टका। शिखरस्योदयार्धान्ते महानास्यवसानके । शक्तिध्वजावसाने वा मूर्भेष्टकां तु विन्यसेत् ॥ १॥ शिलाभिस्तु शिलाहम्य विष्टका त्विष्टकालये। . दारुणा दारुहम्य तु कर्तव्यं शिवमिच्छता ॥ २ ॥ मिश्रद्रव्यकृते ह] यद्रव्ये(ण) कृतं शिरः । तद्रव्येणैव कर्तव्यं मूर्नेष्टकाविधि तथा ॥ ३ ॥ इष्टकाव्यासमायाम घनं चाघेष्टकामिव । लोहजं दारुजं वाथ स्तूपीदण्डं तु कारयेत् ॥ ४ ॥ असनं खदिरं वाथ तिन्त्रिणीसारमेव वा । मधूक पदारज्जूकं षडेते तरवः स्मृताः ॥ ५ ॥ पूर्वोक्तान्येव लोहानि अथ मिश्रितमेव वा । उर्ध्वभूम्यधिविस्तारं स्तूपीदण्डायतं भवेत् ॥ ६ ॥ मूर्ध्नशैलोपरिष्टात् तु स्तूप्यन्तं वा तदायतम् । ऊर्ध्वभूम्यधिविस्तारं तस्य मूलविशालकम् ॥ ७ ॥ तस्याग्रमगुलं व्यासं मूलादग्रं क्रमात् कृशम् । तुङ्गे गुणांशे त्वेकांशं मूले वेदाश्रमाचरेत् ॥ ८ ॥ वस्वश्रं मध्यमग्रे तु वृत्ताकारं प्रकल्पयेत् । चतुरश्रीपरिष्टात् तु सर्व वृत्तमथापि वा ॥ ९ ॥ कर्तव्यं तस्य मूले तु शिखिपादेन योजनम् । दण्डमूलसमं व्यासं स्वव्यासत्रिगुणायतम् ॥ १० ॥