________________
उपालक्षणम् । प्रयस्त्रिंशोऽध्यायः। उर्ध्वपट्टत्रिभागं वा मध्यं तच्चतुरंशकम् । क्षुद्रवाजनमेकांशमथ पञ्चांशके कृते ॥ १० ॥ व्यासे वाजनमश्विभ्यां त्रिभागं घनमुच्यते । विस्तारस्य त्रिभागैकं कर्ण नीप्रवितानतः ।। ६१ ॥ पञ्चभागद्विभागं वा सप्तभागत्रिभागिकम् । धूलीनिरोधनं कर्म सम्यक् कृत्वा गुरुः स्वयम् ॥ ६२ ॥ विन्यस्यन् नीप्रफलका लुपापुच्छेषु वेधयेत् । प्रत्येकं नीप्रकोणेषु पारावतमथ न्यसेत् ॥ ६३ ॥
नीप्रपट्टयपिधानार्थ लोष्टानां लक्षणाय च । शाकाद्युत्तमदारुक्लप्तफलकैरेताः समन्ताल्लुपाः
संछाद्योपरि तत्पिधानफलकां कृत्वोल्लसत्कीलकाम् । वास्त्वाधारसमोन्नतां प्रथिततत्पाथोजकुम्भादिकां विन्यस्येन्नवपुण्डरीकमुकुलाग्रामूलतः स्तूपिकाम् ॥६४॥ यवात्यष्टिमितव्यासा पट्टिका कथिता बुधैः ॥ १५ ॥ यवानां नवकं प्रोक्तं बहलं शिल्पकोविदैः। बहलात् पादहीनं तु तासामन्तरमीरितम् ॥ ६६ ॥ तलोच्छ्रयार्धमुदितमपिधानस्य विस्तृतम् । पादं वाप्यथ पादोनं कीर्तितं तदवाङ्मुखम् ॥ ६७ ॥ पादुकोन्चेन बहलं सममधु त्रिपादकम् । वेश्मपुंसः शिरोद्देशमपिधानमितीरितम् ॥ ६८ ॥ .
इति शिल्परत्ने लुपालक्षणं नाम
त्रयस्त्रिंशोऽध्यायः ।