________________
१७२ शिल्परत्ने
- [पूर्वभागः लुपायशिखयैवैनं दृढीकृत्य न्यसेत् तु वा । लुपानां चूलिकायोगे सन्धिः स्यादर्धपाणिकम् ॥ ५० ॥
लुपाग्रवंशयोगे तु वेणुपर्वाभिधं भवेत्। . विकृतिलुपानां तासां सकलबलसदृशतरा परिधिः। (परिधिः) कूटस्येष्टा सा कथिता शिल्पशास्त्रज्ञैः॥ ५१॥ उत्तरतारसमानं कुर्याद् वा तत्र कूटविष्कम्भम् । सार्ध वाथ सपादं द्विगुणं वा कारयेद् यथाशोभम् ॥ ५२ ॥ यावन्त्यो विकृतिलुपास्तावन्त्यश्राणि कूटस्य । वृत्तं वापि समस्तं तक्षणकुशलैस्तु कारयेन्मतिमान् ॥ ५३ ॥
व्यासाध्य दीर्घ पादोनाक्षं तथैव नेत्रं वा। धुरप्रसवाभं कूटं कुर्यादधोमूलम् ॥ ५४॥ पढें किञ्चित् कुर्यात् कूटस्य लुपावितानतारसमम् । उत्तरवन्नैवोर्ध्व पट्टमधश्चोर्ध्वतो निधनम् ॥ ५५॥ वंशस्यापि च पढें कुर्यादेवं घनं चैव। अग्रमधः कूटस्य कार्य पद्मालये लुपानां च ॥ ५६ ॥ अष्टांशकादिकृशविस्तृतिपावकांश
तीवा च नीप्रफलकोत्तरतो लुपानाम् । हित्राङ्गुलादिविततं चतुरश्ररूपं
कर्तव्यमासु वलयं च निजानुरूपम् ॥ ५७ ॥ उत्तरस्य तु विष्कम्भे दशभागकृते पुनः ॥ ५८ ॥ अष्टांशे नीप्रपट्टिः स्यात् सप्तसप्ताकैरपि । बहलं तविभागैकविस्तारेऽष्टांशके कृते ॥ ५९ ॥