________________
१६६
शिल्परले
[ पूर्वभागः
शिखरे कपोतनिष्क्रान्तं वेदितारसमं विदुः । वलभीबाह्यतो दण्डमध्यर्ध वा द्विदण्डकम् ॥ ५८ ॥
सादिण्डं वा नीनं लम्बनं च कपोतके । तन्नीप्रसदृशं तुङ्गं वलभेर्वाजनोर्ध्वतः ॥ ५९ ॥
शिरस्तादृकपोतो
कारयेत् स्तृपिकाद्धः ।
शिखरे मध्यविस्तारं कपोताद् बाह्यतः समम् ॥ २० ॥
भीबाह्यतुल्यं वा तदर्धे वा त्रिपादकम् । चतुरश्रं च वृत्तं च षडश्राष्टाश्रमेव च ॥ २१ ॥
द्वादशाश्रं षोडशाश्रं पद्मकुड्मलसन्निभम् । तथा कमलसङ्काशं दीर्घवृत्तं च कोमलम् ॥ २२ ॥ अष्टाद्यष्टाष्टधाराणि हर्म्यादीनां शिरांसि च । षडाद्यं षष्टिकोणं च समन्तं शिखराकृति ॥ २३ ॥
शिखरस्य तु विस्तारे बाणाग्न्यंशं तु विस्तृतम् । शिखरे बलिकस्थानं भुतांशे तु शिरोदये ॥ २४ ॥ नीतो वेदभागान्ते बलिकस्थानमाचरेत् । त्रिचतुःपञ्चमात्रं वा बलिमण्डलविस्तृतम् ॥ २५ ॥
ì
तत्तारस्य चतुर्थीशं तन्मण्डलघनं भवेत् । युग्मं वायुग्मसंख्यं वा परितः कल्पयेत् समम् ॥ २६ ॥
बलिकानामधोर्ध्वं वेत्रं तस्यार्धमानतः ।
बलिमण्डलविस्तारपञ्चभागहिभागिकम् ॥ २७ ॥