________________
शिखरलक्षणम्
ब्रात्रिंशोऽध्यायः । तथा शौण्डिकमित्येते व्यामिश्रादिलुपोदयाः। एते दैवविमानानां पाषण्डाश्रमिणां तथा ॥ ७॥ प्रतिलोमकुलानां तु विशेषेण शुभावहाः । अथवान्यप्रकारेण भवन्ति शिखरोदयाः ॥ ८॥ दण्डिकोत्तरविस्तारात् पञ्चभागद्विभागिकम् । सप्तभागत्रिभागं च नवांशे चतुरंशकम् ॥ ९ ॥ रुद्रभागकृतेष्वंशं विश्वभक्ते षडंशकम् । तिथ्यंशे सप्तभागं वात्यष्टयंशे वा गजांशकम् ॥ १० ॥ व्यासाध वा क्रमेणैव कुर्याच्छिखरकोदयम् । एते पञ्चालवैदेहमागधाः कौरवाः पुनः ॥ ११॥ कौसल्यशौरसेनौ च गान्धारावन्तिको क्रमात् । अथ तारार्धमुत्सेधं शिखरस्य नवांशिते ॥ १२ ॥ एकद्वित्रिचतुष्पञ्चषट्सप्तांशविवर्धनात् । क्रमेण शिखरोच्चानां नामान्यपि च सप्तधा ॥ १३ ॥ कालिङ्गकाश्यवासटकौल्लकानि च शौण्डिकम् । काश्मीरं चैव गाङ्गेयौ शिखराणि पृथग् विदुः ॥ १४ ॥ एतानि देवधिष्ण्यानां विस्ताराध नृणां गृहे । अन्यथा शिखरोत्सेधं वदन्ति च महत्तराः ॥ १५ ॥ ऊर्श्वभूस्तम्भतुङ्गस्य सदृशं शिखरोदयम् । आद्यङ्गोन्नतमानं वा शिखरस्योदयं स्मृतम् ॥ १६ ॥ अल्पानां तु विमानानां तारात् व्यंशं शिरोदयम् । विमानोच्छ्यषट्पञ्चभागं वा शिखरोदयम् ॥ ५७ ॥