________________
१६९
- शिल्परले
[पूर्वभागः
तझेदः--
बाह्योत्तरेण रहिते विगतोलकूटे
ग्रीवान्तरे निजगजांशकृशाग्रकुड्ये । न्यस्योत्तरं न्यसतु तत्र लुपास्तुलास्थपादेषु लग्नशिरसश्चरणार्धलम्बाः ॥ १८ ॥ इति शिल्परले गलविन्यासलक्षणं नाम
एकत्रिंशोऽध्यायः।
अथ द्वात्रिंशोऽध्यायः।
अथ शिखरम् । तारात् पञ्चहिभागं वा नवसप्तांशमेव वा। त्रयोदशांशरुद्रांशं विमानानां विभागतः ॥ १॥ अत्यष्टितिथिभागं वा वेदरामांशकं तु वा । षट्पञ्चांशं तु वा नागसप्तभागमथापि वा ॥ २ ॥ विस्तारार्धे तु वा कुर्यादष्टधा शिखरोदयम् । वैदेहं मागधं चापि कौरवं कौसलं तथा ॥ ३ ॥ शौरसेनं च गान्धारं क्रमेणावन्तिकं स्मृतम् । व्यासार्ध शिखरोत्सेधं कि(श्चि)न्न्यूनं च मानुषम् ॥ ४॥ व्यासार्ध तुङ्गमायं तु तत्तुङ्गे सप्तभाजिते । एकैकांशविवृद्धयाष्टौ भवन्ति शिखरोदयाः ॥ ५ ॥ व्यामिश्रकं कलिङ्गं च तथा काशिकमेव च । वैराटं द्राविडं चैव बाल्हिकं कौल्लकं पुनः ॥ ६ ॥