________________
प्रस्तरविधानम् ]
त्रिंशोऽध्यायः ।
द्वित्रिदण्डैस्तु वा तुङ्गमाकारं भिन्नवेणुवत् । साग्रप तदुपरि कर्णमध्यमपालिके ॥ १२ ॥ अर्धत्रिपाददण्डेन कपोतालम्बनं पुनः । उत्तरान्तं वाजनान्तं नवमात्रं तु वा भवेत् ॥ १२ ॥ अथवा पोतिकाधस्तात् कपोतस्यात्तलम्बनम् । तदन्ते वा तुलाकर्णस्ततः स्यादर्घदण्डतः ॥ १४ ॥ त्रिपाददण्डबाहल्यं कम्पमानं विधीयते । शिलामये शिलाभिः स्यादाच्छाद्यं वाजनोपरि ॥ १५ ॥ सौवर्णे राजतैः शौल्बैः लौंटेराच्छाद्य मार्त्तिकैः । अथ गोपाननीप्रार्धाद् दण्डिकानियमो भवेत् ॥ १६ ॥ दण्डकाव्यास बाल्यौ स्तम्भव्यांसार्धमाचरेत् । चतुरायत संस्थानमनुमार्गेण बन्धयेत् ॥ १७ ॥ दण्डिकाभारबहलमधोमण्डिः सनालिकम् । दण्डैः समं मुष्टिबन्धं तत् पृथग् वाजनोपरि ॥ १८ ॥ अथ तद् व्यालसिंहेभभूतनाटकभूषितम् । कपोतोपरि भूतालिः पादात्पाद विनिर्गता ॥ १९ ॥ पादव्याससमा वार्धत्रिपादसदृशोच्छ्रया । प्रतिर्निवेश्या तत्तुङ्गत्रिचतुर्भागनिर्गमम् ॥ २० ॥ वाजनं स्यात् समतलमुन्नतं तु न शोभनम् । इति शिल्परले प्रस्तरविधानं नाम त्रिंशोऽध्यायः ।
१६१