________________
अथ एकत्रिंशोऽध्यायः । अथ गललक्षणम् ।
ऊर्ध्वभूमेः पादतुङ्गं गलमानमुदाहृतम् । आयङ्गोन्नततुल्यं वा गलीन्नतमिहोच्यते ॥ १ ॥ तदुच्चात् त्रिचतुष्पञ्चभागैकं वेदिकोन्नतम् | शेषं गलोदयं ख्यातमशेषं वा गलोदयम् ॥ २ ॥ त्रिचतुष्पञ्चहस्तं वा गलव्यासमुदाहृतम् । अङ्घ्रर्वेद्यङ्घ्रिवेशं यत् तद्वद्वा गलवेशनम् ॥ ३ ॥ त्रिपादं वा तद वा वेद्यङ्घ्रर्गलवेशनम् । वेदाश्रं नागरक वस्त्रश्रं द्राविडे गलम् ॥ ४ ॥ वृत्तं तु वेसरे हम्यें शीर्षानुकूलमाचरेत् । दिशि भद्रसमायुक्तं नासानुकूलकाङ्घ्रिकम् ॥ ५ ॥ तदधः पादतुङ्गाद् वा नालोन्मानं प्रकल्पयेत् । पूर्वाङ्घ्रितः परं पादं यथापूर्व समीरितम् ॥ ६ ॥ भानुद्यंशे गलोत्सेधे कुलांशं तद्गलोदयम् । उत्तरोचं गुणांशं तु वाजनोच्चं शिवांशकम् ॥ ७ ॥ अग्न्यंशं वलभेस्तुङ्गं व्योमांशं वाजनोदयम् । अथवा गलशिष्टांशे भानुभागकृते पुनः ॥ ८ ॥ उत्तरोच्चं गुणांशं तु शिवांशं वाजनोदयम् । तदूर्ध्वे मुष्टिबन्धोचमध्यर्धाशमुदाहृतम् ॥ ९ ॥ मृणाल्युच्च गुणांशं तु पट्टिकां त्वेकभागतः । साशं दण्डिकोचं तु व्योमांशं पद्मपट्टिका ॥ १० ॥