________________
शिल्परले
प्रत्यग्रं कुररीबन्धं पूर्वोक्तक्रममाचरेत् ।
१६०
अथान्यथा
दण्डम त्रिपादं वा तूत्तरोचं त्रिधा भवेत् ॥ १२ ॥ " वलभिर्दण्डमाना स्याद् वाजनं पूर्ववद् भवेत् । कपोतोचं द्विदण्डार्धलम्बं तस्यार्धदण्डकम् ॥ १३ ॥ तत्समं निर्गमं सार्धदण्डं वापि द्विदण्डकम् | शेषं प्रस्तरमानं तु पञ्चभागे कृते पुनः ॥ १४ ॥ आलिङ्गमंशं कण्ठं च येकाभ्यां प्रतिवाजने ।
--
[पूर्वभागः
अथान्यथा
उत्तरोचे + रामांशे भागेनैकेन पट्टिकाम् ॥ १५ ॥ तदूर्ध्वाशद्वयेनापि भावयेत् पद्मपट्टिकाम् । अत ऊर्ध्वं प्रस्तरं स्यात् पादार्घादुन्नतं यथा ॥ १६ ॥ सप्त प्रस्तत्सेधे भागाभ्यां तु कपोतकम् । पट्टिका चापि भागेन कर्णमेकांशतो भवेत् ॥ १७ ॥ द्वाभ्यां तु कम्पकं कुर्याच्छिष्टेनाप्यूर्ध्वपट्टिकाम् । कपोतस्य विशेषेण तूपानसमनिर्गमम् ॥ १८ ॥ प्रकारान्तरं -
-
--
दण्डत्रिपादमुत्सेधमुत्तरोपरिवाजनम् । हंसभूतावलिर्वापि निद्रावा ( ? ) दण्डकोच्छ्रया ॥ १९ ॥ निद्रावकर्णपट्टी ( ? ) च तुलापाश्च यद्गतः । वाजनोर्ध्व कपोतालिं कुर्यादध्यर्धदण्डतः ॥ २० ॥