________________
प्रस्तरविधानम् ] त्रिंशोऽध्यायः ।
१५९ त्रिंशद्भागविभक्तमत्र विधिवत् कृत्वोन्नतं प्रस्तरे __कुर्याच्चोत्तरमत्र पञ्चभिरतस्तेषां त्रिभागं धनम् । द्वाभ्यां वाजनमत्र पञ्चवलभौ भूयः कपोतं दिशा
तस्मिन् स्यान्मुखपट्टिका द्वितयतो गोपानयुक्तं तु तत्॥ आलिङ्गत्रिभिरंशतो द्वितयतः कार्य च तहाजनं
भूयोशैः प्रतिमत्र वह्निभिरुभाभ्यामेव तत्पट्टिकाम् । प्रत्यग्रं मकरास्यकं विरचयेद् व्यालेभसिंहादिभिः
कार्य चारुकपोतकं प्रमथकैरारूढमत्युज्ज्वलम् ॥ ४ ॥ उत्सेधमेवमाख्यातं तेषां नीप्रमथोच्यते। स्तम्भात् तु बोधिकानप्रिं तस्मादुत्तरनिर्गतिः॥५॥ ततस्तद्वाजनस्यापि नीप्रं तत्तुङ्गमानतः । वाजनाद् बलभेनप्रिं वलभ्युच्चसमं भवेत् ॥ ६ ॥ अर्ध वाथ त्रिपादं वा प्राग्वत् तहाजनस्य तु । वाजनात् तु कपोतस्य नीप्रं चालम्बनं समः ॥ ७ ॥ तत्कपोतं सगोपानं गोपानरहितं तु वा । पादबाह्यसमं प्रोक्तं तत्कपोतस्य नीप्रकम् ॥ ८ ॥ आलिङ्गं प्रस्तरसमं वेशं तस्माद् गलस्य तु। प्रत्युत्सेधसमं वाथ कन्धरात् प्रतिनिर्गतिः ॥ ९ ॥ समं त्रिपादमध वा चोत्तराग्रस्य नीप्रकम् । वलभिं भूतहंसाद्यैर्भूषयेदुत्तरोपरि ॥ १० ॥ .. नानापत्रलतायैस्तु कपोते कर्णपालिकाम् । कुर्यात् सिंहमहेभायैः प्रति संभूषयेत् पुनः ॥ ११ ॥