________________
शिल्परने
[पूर्वभागः
युग्मायुग्मास्तुलाः कार्या देवागारे विशेषतः । एकाङ्घ्रथूनादिदण्डोच्छ्रितमुपरिनिधायोत्तरे वाजनं प्राक् तिर्यग्दण्डोच्छ्रिताङ्घयूनितविततितुलास्तासु वंशानुवृत्त्या । स्वार्धाकान्ता जयन्तीस्तदुपरि सुसमीकृत्य कृत्वानुमार्ग निश्छिद्रं छादयेत् स्वोचितघनफलकाप्रस्तरेणोर्ध्वभागम् ।
१५८
द्वारार्धतः कदलिकाकरणे + गर्भकुड्यं क्रमान्मुकुलयेदथवा शिलाद्यैः ।
द्वारोर्ध्वतोऽष्टपुटचारुलसत्तरङ्ग
गर्भार्घतुङ्गमपिधानशिलाभिरामम् ॥ ३२३ ॥
इति शिल्परले उत्तरलक्षणं नाम एकोनत्रिंशोऽध्यायः ।
अथ त्रिंशोऽध्यायः । अथ प्रस्तरम् ।
स्तम्भोत्सेधार्धमानं वा मासूरोत्सेधमात्रकम् । प्रस्तरस्योच्छ्रयं कुर्यात् पादस्योर्ध्वं विशेषतः ॥ १ ॥ स्तम्भार्घादिसमुच्छ्रये प्रकृतिभक्ते प्रस्तरे वातिधृ
त्यंशे चोत्तरवाजने त्रिशशिभिर्भूतालिरंशैस्त्रिभिः । क्ष्माद्रीन्दुक्षितिभिः सवाजनकपोतालिङ्गपट्यन्तरी
त्र्येकांशैः प्रतिवाजने प्रतिकपोते क्ष्मांशहान्यावरे ॥ २ ॥