________________
उत्तरलक्षणम्] एकोनत्रिंशोऽध्यायः ।
तहनं द्विगुणं वाथ त्रिगुणं वा चतुर्गुणम् । पादानां विस्तृतं तेषां मूर्ध्नि वा चूलिकां न्यसत् ॥ २० ॥ उत्तरोपरि वा न्यस्येत् कीलवेधैर्दृढीकृतम् । उत्तरोपरि वा न्यस्येदथवा वाजनोपरि ॥ २१ ॥ कपोतोपरि वा न्यासं तुलानां प्रस्तरेऽथवा। . . उत्तरोपरि विन्यस्य फलकं नेत्रसंज्ञकम् ॥ २२ ॥ तदूर्वे वा तुलान्यासं यथाशोभं प्रकल्पयेत् । वलभेश्च कपोतस्य घनमुत्तरतः समम् ॥ २३ ॥ तत्तदुचितभूषाढ्यं कपोतं मुष्टिबन्धक्त् । एकदण्डं द्विदण्डं वा त्रिदण्डं प्रस्तरोच्छ्रयम् ॥ २४ ॥ कूटकोष्ठादिकं सर्व कारयेत् प्रस्तरे बुधः। नानाचित्रकथां वात्र वल्लीपुप्तादिकं तु वा(?) ॥ २५ ॥ नेत्राख्यफलकाव्यासप्रस्तरोत्सेधतः समम् । त्रिपादं वाथवार्ध वा लताभिर्मण्डयेच तम् ॥ २६ ॥ तुलानां विस्तृतं कुर्यादुत्तरेण समादिकम् । अलिन्दतारसदृशं तुलाङ्घयुच्छ्रयमिष्यते ॥ २७ ॥ आरूढबाह्युत्तस्योरलिन्दं मध्यमुच्यते ।। आरूढोत्तरविस्तारमुत्तरेण समादिकम् ॥ २८ ॥ न्यूनं तस्य तु पर्यन्तं चतुष्षष्टयङ्गुलादिभिः । आरूढपादतुङ्गेन तदुत्तरविशालकम् ॥ २९ ॥ करोतु वा घनादीनि सर्व पूर्ववदाचरेत् । . युग्मा वाथ तुलाः कार्या अयुग्माः पतयः स्मृताः॥ ३० ॥