________________
शिल्परत्ने
[पूर्वभागः
पत्रोत्तरे विशेषो + तथा युग्मानि वा पुनः । भारतारसमव्यासं यववृद्ध्या तथा पुनः ॥ ९ ॥ यवहीन वा कुर्याद् विस्तारार्घावसानकम् । विस्तारसप्तभागैकं नागरन्ध्रदशांशकैः ॥ १० ॥ रुद्रभास्करविश्वांशैरिन्द्रभागेऽर्धभागकैः : । एकांशं तस्य पत्रस्य घनमानमुदाहृतम् ॥ ११ ॥ नानापुष्पलतादाममुखैः पत्रं विभूषयेत् । सुमुहूर्ते सुनक्षत्रे शुक्लपक्षे शुभोदये ॥ १२ ॥ स्नातोऽनुलिप्तः स्थपतिः द्रव्यैः सन्तोष्य तक्षकान् । गणेश्वरस्य संपूज्य पुण्याहं कारयेद् द्विजैः ॥ १३ ॥ विप्रेभ्यो दक्षिणां कृत्वा मौहूर्तिकवराय वै । मुहूर्तदक्षिणां कृत्वा वासोभिरछन्नमुत्तरम् ॥ १४ ॥ कुंड्येषु स्थापयेत् सम्यगथवाङ्घ्रिषु विन्यसेत् । तत्रापि बोधिको वा वीरकाण्डे तु वा न्यसेत् ॥ १५ ॥ स्वस्तिसूक्तादिकं सर्वे जपयित्वा द्विजोत्तमैः । संयोज्यान्यान्युत्तराणि परितश्चूलिका न्यसेत् ॥ १६ ॥ भारार्धं चूलिकोत्सेधं त्रिपादं वा समाचरेत् । उत्सेधार्धं घनं तस्य त्रिपादं त्र्यंशमेव वा ॥ १७ ॥ उत्तरस्योपरिष्टात् तु लुपास्थानेषु वा न्यसेत् । पादानि चूलिकाव्याससमोच्चानि ततः क्रमात् ॥ १८५ एकैकाङ्गुलवृद्या तु कारयेद् वा तदुन्नतम् । चूलिकाघनमानेन तुल्यं तेषां घनं स्मृतम् ॥ १९ ॥
१५६