________________
अथ एकोनत्रिंशोऽध्यायः । अथोत्तराणि !
खण्डोत्तरं चरणविस्तृतितुल्यविस्ता रोत्सेधमुत्तममतचरणोनतीव्रम् | पत्रोत्तरं दलविहीनघनं कनिष्ठं रूपोत्तरं घनततीविपरीततो वा ॥ १ ॥
स्तम्भमूलसमं तारं तारस्यार्धे घनं विदुः । सप्तांशे शुगभागं ( ? ) वा रुद्रांशे सप्तभागिकम् ॥ २ ॥ एवं पञ्चविधं प्रोक्तं रूपोत्तरघनं बुधैः । षडूभक्ते घनमानेनाप्यग्निभागं घनं विदुः ॥ ३ ॥ कल्पवाजनमेकांशं महापठ्ठे हिभागिकम् । सप्तांशे भूमिभागं वा क्षुद्रवाजनकोच्छ्रयम् ॥ ४ ॥ द्विभागमूर्ध्वपट्ट स्या (दों ? दोमां )शं घनमेव च । रुद्रांशे बाणभागं वा घनं वाजनमर्णवैः ॥ ५ ॥ अल्पवाजनमक्ष्यंशमथवाष्टविभाजिते । घनं वेदांशमिन्द्वंशं क्षुद्रवाजनमिष्यते ॥ ६ ॥ महापद्मं त्रिभिर्भागैव्युत्क्रमणे च दृश्यते । उत्सेधे विशिखांशिते द्वितयतो रूपोत्तरे वाजनं षड्भक्तेऽल्पमिलांशतो द्वितयतो वा स्यान्महावाजनम् । एतन्निर्गमनं निजांशविहितं न्यस्येदुपर्युत्तरस्यैतत्तीव्रसमुच्छ्रयोच्छ्रयदलांशव्याततां पट्टिकाम् ॥ ७ ॥ स्तम्भान्तरेषु युग्मानि पत्राणि परिवेष्टयेत् ॥ ८ ॥