________________
शिल्परले
[ पूर्वभागे कुम्भलताविधानम् ]
विनिर्गतोन्नतिं कुम्भं पार्श्वयोस्तस्य तन्मुखात् । पत्रैर्विनिर्गतैश्वित्रं यथाशोभं नियोजयेत् ॥ ३ ॥ तदूर्ध्वे कुड्यचरणसमपादाम्बुजासनम् । अखण्डकलशं कुर्यात् पद्मं कुम्भलतान्वितम् ॥ ४ ॥ तस्याः कुम्भलतासंज्ञा सैव खण्डोपरि क्रमात् । नक्रतोरणविन्यस्ता स्तम्भकुम्भलता मता ॥ ५ ॥ कुम्भपद्मासनयता सैव सर्वलतान्विता । पद्मकुम्भलता नाम विज्ञेयानिलता मता ( ? ) ॥ ६ ॥ स्तम्भमूले तु वेद्यूर्ध्वे पद्मासनं प्रकल्पयेत् । पद्मोचं वसुधाभज्य कम्पमंशेन कारयेत् ॥ ७ ॥
१५४
अधःपद्मं गुणांशेन गलमेकांशमानतः । ऊर्ध्वपद्मं द्विभागेन कम्पमेकेन कल्पयेत् ॥ ८ ॥ तदूर्ध्वं कुम्भतुङ्गं तु पद्मस्योच्चसमं भवेत् । तत्तुङ्गद्विगुणा कुम्भलता वा ह्यन्यथाथवा ॥ ९ ॥ तदेवोत्सन्धिकोर्ध्वे तु वीरकाण्डं प्रकल्पयेत् । बोधिकारहितं यत्तत्स्तम्भाधारलता स्मृता ॥ १० ॥ स्तम्भतोरणवन्मूर्ध्नि कर्तव्या कुम्भगा लता ।
इति शिल्परत्ने कुम्भलताविधानं नाम
अष्टाविंशोऽध्यायः ।