________________
अथ सप्तविंशोऽध्यायः । अथ तृचस्फुटितकम् | षडङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् । ( तावत् ) कलावधिर्यावद् व्यासः स्यात् षड्विधोऽस्य तु । विस्तारार्धं तु तन्नी त्रियंशं वा त्रिभागिकम् । वृत्ताकारं समाद्यन्तं तोरणाङ्घ्रिवदार्यतम् ॥ २ ॥ सकलं तत्तदूर्ध्वे तु शुकनास्यन्वितं तु वा । कर्णकूटाकृतिर्वाथ वृत्ताकारं प्रकल्पयेत् ॥ ३ ॥ स्तोत्सेधयुगांशे तु द्विभागं चरणायतम् । कन्धरोदयमेकांशं शुकनास्यंशतो भवेत् ॥ ४॥ तदेव कूटमानं तु तत्तद्योग्य वशान्नयेत् ।
इति शिल्परत्ने वृत्तस्फुटितकलक्षणं नाम सप्तविंशोऽध्यायः ।
अथ अष्टाविंशोऽध्यायः ।
अथ कुम्भलता |
स्तम्भान्तरे महति धामनि पादविस्तारोच्चाधिपादततपद्मगकुम्भसंस्थाम् । पादायतां घटमुखोद्गतपत्रचित्र
मूलां प्रकल्पयतु कुम्भलतां समन्तात् ॥ १ ॥ कुड्यस्तम्भस्य विस्ताराद् द्विगुणं चार्धमुच्छ्रयम् । अथ पद्मासनं कुर्यात् तत्तदूर्ध्वे यथारुचि ॥ २ ॥ १. 'यु' ख. पाठः.