________________
शिल्परत्ने पूर्वभागे पञ्जरकरणविधानम् । अथ तत्पार्श्वतः कार्य चरणं त्वर्धमण्डितम् । दण्डं सपादं साधं वा सत्रिपादं द्विदण्डकम् ॥ ६५ ॥ द्विदण्डं वा प्रकर्तव्यं तज्जालकविशालकम् । उपपीठोक्तमार्गेण कारयेदुपपीठकम् ॥ ६६ ॥ तथाद्यङ्गं तथाकारं पादं पादोक्तमार्गतः । तथोत्तरं च वलभिस्तत्तद्भूषान्वितं स्मृतम् ॥ ६७ ॥ अन्तरप्रस्तरयुतं गलकं बालनासिकम् । तिलपुष्पसमाकारं शीर्ष तिलकपञ्जरम् ॥ ६८ ॥ ग्रीवायां निर्मिते तायें गरुडाभिधपञ्जरम् । कपोते वा गले वा स्यात्कपिश्चेत्कपिपञ्जरम् ॥ ६९ ॥ प्रत्यूचे सिंहपादश्चेत्सिंहपञ्जरनामकम् । कपोते शिखरे कर्णे नानाचित्रविभूषितम् ॥ ७० ॥ चित्रपञ्जरमित्युक्तं शिल्पशास्त्रविशारदैः । महाप्रासादयोग्यं स्यात् त्रिचतुर्भूमिपञ्जरम् ॥ ७१ ॥ महागोपुरमुख्ये वा नैव क्षुद्रविमानके। अन्यदल्पविमानेषु योज्यं तदनुसारतः ।। ७२ ॥ इति शिल्परत्ने पञ्जरकरणविधानं नाम
षड्विंशोऽध्यायः ।