________________
पञ्जरकरणविधानम्] षड्विंशोऽध्यायः ।।
१५१ प्रत्युत्सेधं द्विभागं स्याद् द्विभागं पादमानकम् । सवलभ्युत्तरं द्वाभ्यां षड्भागैः शिखरं स्मृतम् ॥ ५४॥ शेष शक्तिध्वजं प्रोक्तं चतुस्तलमिदं स्मृतम् । अथाष्टचत्वारिंशद्भिः पञ्जरैरंशितोदये ॥ ५५ ॥ सवलभ्युत्तरं चैव कपोतं प्रस्तरं तथा । । वेदिका च त्रित्रिभागैः पादोत्सेधं शरांशकम् ॥ ५६ ॥ सवलभ्युत्तरं तत्र कपोतं प्रतिवेदिके।.. पृथक् सार्धद्विभागेन पादोच्चं चतुरंशतः ॥ ५७ ॥ बलभ्युत्तरमानं च कपोतं प्रस्तरं तथा । पृथक् पृथग्विभागेन पादं बलभिकोत्तरम् ॥ ५८ ॥ पञ्चांशं शिखरोत्सेधं शेषं शक्तिध्वजोन्नतम् । एवं वा पञ्जरं कुर्याच्चतुस्तलविभूषितम् ॥ ५९ ।। चतुर्मुखं तु तुर्यश्रं पञ्जरं शिखरोदयम् । तदायामत्रिभागैकं भद्रनासिविशालकम् ॥ ६ ॥ गले गले बालनासी तड्यासाग्न्यंशविस्तृता। तारात्पञ्चांशविस्तारा बालनासिहयेऽथवा ॥ ६१ ॥ तत्समं पादहीनं वाप्यध वा नासिनिर्गमम् । दामैर्मुकुलवल्लीभिभूषयेच्छिखरं तथा ॥ ६२ ॥ . पादोपरि कपोतेषु नासिकापत्रचित्रिता । वेधूचे पञ्जराधस्ताज्जालकं पूर्वमुक्तवत् ॥ ६३ ॥ नानाचित्रविचित्रं वा भवेत्कुम्भलतान्वितम् । नानापत्रमृगाकीर्ण नाटकोक्तकथान्वितम् ॥ ६४ ॥