________________
१५० शिल्परत्ने
[पूर्वभागः वेदांशं वा त्रिभागं वा कुर्यादौचित्यभेदतः।। शेषं शक्तिध्वजोत्सेधं भवेद् द्वितलपञ्जरे ॥ ४३ ॥ अथवान विभागाध सवलभ्युत्तरोदयम् । तत्समं तु कपोतोच्चं द्विभागं प्रस्तरोदयम् ॥४४॥ त्रिभागं स्यात् पादतुङ्गं सवलभ्युत्तरं दृशम् । पञ्चांशं शिखरोत्सेधं शेषं शक्तिध्वजं स्मृतम् ॥ ४५ ॥ एवं वा पञ्जरं कुर्याद् द्वितलं सर्वमन्दिरे । षट्त्रिंशद्भाजिते तुङ्गे सवलभ्युत्तरं त्रिभिः ॥ ४६ ॥ तत्समं तु कपोतं स्याद् द्यर्धाशं प्रस्तरोदयम् । . तत्समं वेदिकामानं चतुर्भिः पादमुच्यते ॥ ४७ ॥ अर्धाधिकद्विभागेन वलभ्यन्वितमुत्तरम् । तत्समं तु कपोतोच्चं तत्सम प्रस्तरोदयम् ॥४८॥ तत्समं चरणोत्सेधमुत्तरोत्सेधमंशतः। वलभ्युन्नतमेकांशं + + + शिखरोन्नतम् ॥ ४९ ॥ शक्तिध्वजं द्विभागं स्यादित्युक्तं त्रितलं बुधैः । चतुश्चत्वारिंशदंशे तुङ्गे पादावशेषिते ॥ ५० ॥ सवलभ्युत्तरं लोकैः कपोतं तत्समं स्मृतम् । त्रिभागं प्रतितुङ्गं स्यात् तत्सम वेदिकोदयम् ॥५१॥ चतुर्भिः पादमानं स्याद् द्वाभ्यां वलभिकोत्तरम्। तत्समं तत्कपोतोच्चं द्विभागं प्रस्तरोदयम् ॥ ५२ ॥ तत्सम वेदिकामानं पादोत्सेधं त्रिभागतः। वलभ्युत्तरमश्व्यशं तत्समं तु कपोतकम् ॥ ५३ ॥