________________
पक्षरकरणविधानम् ] षड्विंशोऽध्यायः ।
अर्धाशं वेदिकामानं प्रत्यन्तं पञ्जरं स्मृतम् । तस्माद् गृहकपोतान्तं गलोदयमिवाचरेत् ।। ३२ ॥ प्रासादस्य कपोतात्तु यथाशोभं विनिर्गतिः । तलान्तरेऽपि कर्तव्यं पादोच्चे तु नवांशिते ॥ ३३ ॥ गुणांशघनभित्तिः स्याच्छत्रशीर्ष तु संयुतम् । पादायामं चतुर्भागमध्यर्ध प्रस्तरोदयम् ॥ ३४ ॥ अर्धाशं वेदिकामानं कपोतान्तं गलोदयम् । प्रतिवाजनसीमान्तं पञ्जरोदयमीरितम् ॥ ३५ ॥ गोपानाधारतः कल्प्यान् महाबलपराक्रमान् । हस्तपादद्वयोपेतान् दंष्ट्राकीर्णान् सटान्वितान् ॥ ३६ ॥ रौद्रदृष्टिसमायुक्तान् सिंहान्वा कुञ्जरानपि । हंसव्यालादिभूतान्वा गले वा धारयेद् दृढम् ॥ ३७ ॥ धृत्वा हस्तेन गोपानं यथाशोभं पदाथवा । अथ पादौ च हस्तौ च यथायुक्ति निधाय च ॥ ३८ ॥ गोपानं शिरसावाह्य रचयेद्वा मनोहरम् । अथवा पञ्जरोत्सेधादाद्यधं पादमुच्यते ॥ ३९ ।। तच्छेषपञ्जरोत्सेधेऽप्यष्टादशविभाजिते । कुर्यादेकांशमानेन तूत्तरोच्चं विचक्षणः ॥ ४० ॥ वलभिं त्वेकभागेन द्विभागं तु कपोतकम् । प्रस्तरोत्सेधमश्व्यंशं तत्सम वेदिकोदयम् ॥ ४१ ।। सार्धद्विभागं पादोच्चं तत्पादं तूत्तरोदयम् । तत्सम वलभेरुच्चं पञ्चांशं शिखरोदयम् ॥ ४२ ॥