________________
१४८ शिल्परत्ने
पूर्वभागः अष्टनीप्रांशकर्ण च कपोताद्यग्रसंयुतम् ।। निर्वृहपञ्जरं चैतल्लम्बनासिकमुच्यते ॥ २२ ॥ संश्लिष्टनीप्रकाघ्रिकृतनागदलादपि । + + नियूहितं युक्तं सर्वाङ्गैर्लम्बनासिकम् ॥ २३ ॥ सिंहश्रोत्रशिखायुक्तमेतदेव तु पादवत् । नीप्रसंश्रितकर्णाशं सिंहश्रोत्रविधानकम् (?) ॥ २४ ॥ यत् स्वविस्तारपञ्चांशयंशानिर्गमसंयुतम् । नीडाधस्तात्कपोताद्यैः खण्डनि!हकं युतम् ॥ २५ ॥ दण्डदण्डानिष्क्रान्तनीप्राधस्तात् ततोपार(?) । कोर्ध्वतोरणोपेतं कपोताद्यङ्गसंयुतम् ॥ २६ ॥ झषपञ्जरसंज्ञः स्यात्पञ्जरं त्वेवमष्टधा। पञ्जरोच्चे शरांशे वा सपादांशेन चाङ्ग्रिकम् ॥ २७ ॥ तदर्धे प्रस्तरोत्सेधं तत्समं कर्णमानकम् । शेषार्धे मञ्चकर्णाख्यौ शेषं शीर्षोदयं स्मृतम् ॥ २८ ॥ तत् स्तम्भार्धादधिष्ठानं शेषेणाप्युपपीठकम् । एवमुक्तं हि सर्वेषां पञ्जरावयवं बुधैः ॥ २९ ॥ अन्यथाह विशेषेण काश्यपः पञ्जरोदयम् । उपानाद्युत्तरान्तं तु नवभागविराजिते ॥ ३० ॥ उपपीठमथांशेन पक्षांशं तु धरातलम् । वेदांशं चरणायाम मञ्चमध्यर्धभागतः ॥ ३१ ॥
१. 'थ' क. पाठः.