________________
पञ्जरकरणविधानम्] षड्विंशोऽध्यायः । दृश्यतेऽत्र महानासिरधिष्ठानसमन्वितम् । आदिभूततले तत्र पञ्जरं प्रस्तरान्वितम् ॥ ११ ॥ एतेषां स्वस्वदीर्घार्धमादिपादोदयं स्मृतम् । एवमादितले कुर्यान्महानास्यविशेषतः ॥ १२ ॥ कूटकोष्ठाकृतिर्वा स्यात् पञ्जराकृतिरेव वा । आदिपादे पञ्जराणामर्धमण्डितयोस्ततः ॥ १३ ॥ पादयोरन्तरे कुर्याज्जालकं पूर्वमुक्तवत् । ' सिंहपञ्जरमादौ स्यात् तत्परं चापञ्जरम् ॥ १४ ॥ नियूहपञ्जरं चैव कथितं. लम्बनासिकम् । सिंहश्रोत्रं तथा खण्डनियूहं झषपञ्जरम् ॥ १५ ॥ द्विदण्डादाचतुर्दण्डविस्तृतं जालकान्वितम् । चित्रपादद्वयोपेतं श्लिष्टप्राकारनीप्रकम् ॥ १६ ॥ षडर्गसहितं व्याससमनिर्गममेव वा। शक्तिध्वजयुतं चापि तथा सम्मुखपट्टिकम् ॥ १७ ॥ वेदिकाजालकस्तम्भयुक्तं(वा)सिंहपञ्जरम् । प्रासादनीप्रसंश्लिष्टनीप्रादर्ध(वि)निर्गमः ॥ १८ ॥ अधिष्ठानाघ्रियुक्तं च प्रस्तरग्रीवसंयुतम् । तद्वत्सशिखरं शक्तिध्वजं समुखपट्टिकम् ॥ १९ ॥ वेदिकाजालकर्णाढ्यं सार्धपञ्जरसंज्ञितम् । प्राग्वच्छेषं च विस्तारपादसम्मितनिर्गमम् ॥ २० ॥ व्यासत्रिभागनियूहं वृत्तस्फुटितकर्मवत् । पञ्जराख्यं स्मृतं चाथ स्वतुल्यशिखरायकम् ॥ २१ ॥