________________
१७६
शिल्परले
दण्डैर्द्वित्रिचतुर्मितैर्मितवितानातानकं पञ्जरं नासाद्युज्ज्वलितं व जालकमधो वेद्यूर्ध्वतः संस्थितम् । दण्डैर्द्यादियुगान्तिमैस्ततमतो दण्डर्जितं चायतं
[पूर्वभाग:
कर्तव्यं द्विगुणान्तिमं सुषिरितं गोमूत्रिकादिक्रमात् ॥ २ ॥ पञ्जरं नासिकाकारं कूटकोष्ठाभमेव वा । हस्तपृष्ठविमानस्य शिखराकृति वा पुनैः ॥ ३ ॥ द्वितलं त्रितलं चैव चतुस्तलमिति क्रमात् । हारान्तरत्रिभागं तु वेदं पञ्जरविस्तृतम् || ४ || पश्चभागत्रिभागं वा त्रिभागद्वयमेव वा । सप्तभागविभागं वा नवभागचतुष्ककम् ॥ ५ ॥ सप्तभागचतुर्भागं पञ्चभागविभागिकम् । एवं सप्तविधं प्रोक्तमथवा दण्डमानतः ॥ ६ ॥ द्वित्रिवेदमिदं वा स्यात्पखराणां विशालकम् । यथावकाशं तत्पार्श्वे तत्तदन्तरमानतः ॥ ७ ॥ एवमेव प्रकर्तव्यं धीमता पञ्जरान्तरम् । व्यासतुल्यं त्रिपादं वाप्यर्धे वा भित्तिबाह्यतः ॥ ८ ॥ निष्क्रमं पञ्जरादीनां त्रिभागद्वयमेव वा । यत्स्तम्भबहलार्धं तत्सर्वभूषणनिष्क्रमम् ॥ ९ ॥
१.
महानास्युदयं तावद् यावत्प्रत्युत्तरान्तरम् । तत् पञ्चषट्सप्तनागभागोनं पञ्जरोदयम् ॥ १० ॥
'नः । सप्तभागत्रि' क. पाठः.