________________
१४५
पञ्जरकरणविधानम् ] . षड्विंशोऽध्यायः ।
कूटव्यासत्रिभागैकं स्वनासेविस्तृतं भवेत् । तयासे त्रिचतुष्पञ्चभागे भागं तु नीप्रकम् ॥ १४ ॥ कर्णकूटकपोतात्तु नासिकानिर्गमं भवेत् । चतुर्दिक्षु चतुर्नासीसंयुतं कूटमुच्यते ॥ १५ ॥ एकस्तूपिसमायुक्तं नीप्रं वेशं विमानवत् । वेदाश्रं वसुकोणं वा वृत्ताभं वा गलं शिरः ॥ १६ ॥ नागराधुचितं कल्प्यं कर्णकूटं विशेषतः। शालानां पार्श्वयोः कुर्याल्ललाटाख्यं तु नासिकम् ॥ १७ ॥ स्वस्तूप्यग्रसमं प्रोक्तं ललाटस्याग्रसीमकम् । शालादीर्घत्रिभागैकं मुखे नासिविशालकम् ॥ १८ ॥ गले वा कूटकोष्ठानां देवताद्यास्तु कल्पयेत् । कोणे मध्येऽन्तरे भित्तौ बाह्ये वा मानसूत्रतः ॥ १९ ॥ निर्गतैरुक्तमानेन कूटकोष्ठकपञ्जरैः । संयुक्तं सदनं कार्य देवमानुषयोरपि ॥ २० ॥ कूटं कोष्ठं पञ्जरं (च) निवृत्तस्फुटितं तथा । गृहपिण्डेरधस्तात् स्युः तथा कुम्भलतादयः ॥२१॥
इति शिल्परत्ने कूटकोष्ठविधानं नाम
पञ्चविंशोऽध्यायः ।
अथ षड्विंशोऽध्यायः।
अथ पञ्जराणि । शालाकूटान्तरालं तद्धारान्तरमिति स्मृतम् । पञ्जरं तत्र कुर्वीत तदनेकविधं भवेत् ॥ १ ॥