________________
शिल्परत्ने
पूर्वभागः कोणेषु कूटं तुर्यश्रं दिक्षु शालायताश्रका । अधिष्ठानं स्तम्भवर्ग प्रस्तरं कर्णशीर्षकौ ॥ ४॥
स्तूपिकां च विशेषेण बिभ्रतौ कूटकोष्ठको । धाम्नोष्टा(श)मितोऽथवा प्रतिमुखैः स्तूप्यन्तिमैस्संयुतः
प्रासादाकृतिकश्च कूट उदितो मध्यस्फुरन्नासिकः । शाला तत्समसूत्रगा मुखपटी शक्तिध्वजाधुज्वला स्तूपित्रय्युपशोभिता परिलसन्नासा च सङ्कीर्तिता॥ ५ ॥ एवं चादितले कुर्यादूर्ध्वभूमिषु तौ पुनः ॥ ६ ॥ अधिष्ठानं विना सर्वैरङ्गैः स्यातां समन्वितौ । ऊर्ध्वपादोदयं सप्तभागं कृत्वा विशेषतः ।। ७ ।। एकांशं वेदिकोत्सेधं सार्धाशं गलमानकम् । शीर्षकं तु गुणांशेन शेषं स्तूप्युदयं भवेत् ॥८॥ अथवा रुद्रसंभक्तेऽप्येकांशं वेदिकोन्नतम् । गुणांशं चरणोत्सेधं पादोनयंशमुत्तरम् ।। ९॥ सपादांशं दलोत्सेधं पादोनाग्न्यंशकं शिरः। स्तूप्युत्सेधं सपादांशं क्रमशः परिकल्पयेत् ॥ १० ॥ एवं हि कूटकोष्ठौ द्वौ कल्पयेत् सर्वभूमिषु । कूटस्य तद्विशालं वा त्रिपादं वार्धमेव वा ॥ ११॥ पादं साधं सपादं वा मानसूत्राहहिर्गतिः । दण्डं सार्धद्विदण्डं वा यध वाथ त्रिदण्डकम् ॥ १२ ॥ मानस्याभ्यन्तरे वेशं विपदामास्पदं विदुः । यावत्कूटस्य निष्क्रान्तं तावच्छालाविनिर्गतिः॥ १३ ॥