________________
मालानि]
प्रयोविंशोऽध्यायः । दण्डपादादिमानेन तत्पादं बहलं विदुः । पूर्वोक्तकमतः कार्य तोरणत्रयमत्र तु ॥ ३२ ॥
अथ मङ्गलानि। न्यस्येच्छङ्खारिकेतून मुकुरवृषसृणींश्चामरं मत्स्ययुग्मं दिक्ष्वीशे ज्याद्यवत्सं मुकुरवृष + + द्वन्द्वकुम्भास्त्रिधानि। . श्रीशेशे स्वस्तिकाब्जं दरघट(मु)कुरं सोत्पलावर्तवत्सं वत्सं कुम्भं सभेरीमुकुरझषसृणी शंखनाद्यौ(?) च चण्ड्याम् ॥
पूर्णघटध्वजवज्रौ स्वस्तिकशक्ती च चामरद्वितयम् । नागमयूर(क)मष्टौ स्कन्देऽपि करोतु मङ्गलान्यत्र ॥ ३४ ॥ दर्पणं पूर्णकुम्भं च वृषभं चामरद्वयम् । श्रीवत्सं स्वस्तिकं शङ्ख दीपं विघ्ने सशास्तरि ॥ ३५ ॥ पीठं खड्गं सुधाकुम्भं को + व्यादरपुस्तकान्(?) । काल्यां सह स्रक्ताम्बूलमिक्षुदण्डमिति क्रमात् ॥ ३६ ॥
दीपिका दर्पणं हेभ धान्यपात्रं फलं दधि । पुस्तामङ्गलपात्राणि लौकिकं मङ्गलाष्टकम् ॥ ३७ ॥ इति शिल्परत्ने तोरणलक्षणं नाम
त्रयोविंशोऽध्यायः ।