________________
अथ चतुर्विंशोऽध्यायः।
अथ जालकम् । पादवर्गे गले चैव प्रासादानां तु जालकम् । प्रासादेषु महाशास्वप्यन्तरालस्य मध्यमे ॥ १॥ योजयेद् वेदिकोचे तु सर्वेषामुत्तरादधः । चतुर्दण्डविशालं तदुत्तमं परिकीर्तितम् ॥ २ ॥ त्रिदण्डं वा द्विदण्डं वा मध्यमं त्वधर्म क्रमात् । विस्तारसदृशोत्सेधादेकदण्डविवर्धनात् ॥ ३ ॥ विस्ताराद्विगुणं यावत् तावद् वै जालकोदयम् । तारात्सपादं साध वा यथायोग्यं समाचरेत् ॥ ४ ॥ अथवा जालकानां तु तुङ्गं वेत्युत्तरान्तरम् । उच्चत्रिपादं विपुलं त्रिभागोनमथापि वा ॥ ५ ॥ स्तम्भव्यासार्धमानं तु व्यासं जालाज्रिकम्पयोः। घनं तत्सममधे वा त्रिचतुर्भागमेव वा ॥ ६॥ युग्मपादसमायुक्तं युग्मकम्पसमन्वितम् । मध्ये स्तम्भं च कम्पं च वर्ज जालकमाचरेत् ॥ ७ ॥ युग्मायुग्माधिभिः कम्पैरुक्तं तुङ्गे च वैपुले । भित्तिमध्याद् बहिस्तस्य स्तम्भमध्यं न योगवत् ॥८॥ गवाक्षं कुञ्जराक्षं वा नन्द्यावर्तमजुक्रियम् । . पुष्पखण्डं सकर्ण च जालकं षड्विधं भवेत् ॥ ९॥ दीर्घाश्रं कर्णगं छिद्रं गवाक्षमिति कथ्यते । युगानं कर्णगं छिद्रं कुञ्जराक्षमुदाहृतम् ॥ १० ॥