________________
शिल्परले
पत्राख्यं मकराख्यं वा चित्रतोरणमेव वा । मध्योर्ध्वे शूलसंयुक्तं पार्श्वयोश्च विशेषतः ॥ २१ ॥ लोहैर्दारुशिलाभिर्वा कर्तव्यं द्वारतोरणम् । वृत्तौ तोरणपादौ तु कर्तव्यौ वा यथारुचि ॥ २२ ॥ दिङ्नन्दवसुभागेन शिखावन्तौ स्वदीर्घतः | तदूर्ध्वे चोत्तरं कार्ये तदुच्चं इण्डमानकम् ॥ २३ ॥ दण्डत्रिपादम वा तद् वाजनमिदं विदुः । दलं तत् त्रिचतुर्भागं क्षेपणं तद्दलं भवेत् ॥ २४ ॥ सार्धदण्डं सपादं वा स्यादूर्ध्वो वलकोदयम् | तस्यां स्युर्मङ्गलान्यष्टौ तदूर्ध्वे त्रिशिखान्यपि ॥ २५ ॥ पञ्चवक्राणि तानि स्युः हिण्डोच्चानि मध्यतः । समं त्रिपादङ्गानि पार्श्वपत्राणि वा भवेत् ॥ २६ ॥ हित्रिवेदाङ्गुलं युक्त्या पत्राणां विस्तृतिः स्मृता । स्वोत्सेधाष्टनवांशं वा पत्राणां बहलं स्मृतम् ॥ २७ ॥
१४०.
[पूर्वभाग:
शिलादृढप्रवेशेन पादमूलेन निश्चलम् ।
तोरणानि युगहस्तमितानि मोर्ध्वमर्धविततानि भवन्ति । केतवः सुरगृहोत्तरदैर्ध्याः स्वोक्त + + + विचित्रपताकाः ॥ स्तम्भे स्तम्भे प्रकर्तव्यं सर्वेषां स्तम्भतोरणम् ॥ २९ ॥ पादोच्चं तु त्रिधा भक्त्वा त्रिभागं चरणोदयम् । उत्तरं वाजनं त्वब्जं क्षेपणं क्षुद्रवाजनम् ॥ ३० ॥ तदूर्ध्वं झषबन्धं तु शेषभागेन कारयेत् । स्तम्भविस्तारमानेन झपविस्तारमाचरेत् ॥ ३१ ॥